अभ्यासः – मौखिकः
1 . एकपदेन उत्तरं वदत –
( क ) के गीतकानि गायन्ति ?
उत्तर – देवाः
( ख ) एषां कः प्रसन्नः ?
उत्तर – हरिः
(ग)इयं निर्मला मातृभूमिः कीदृशी अस्ति ?
उत्तर – वत्सला
(घ)अस्मदीया भारतीया धरा कीदृशी अस्ति ?
उत्तर – विशाला
( ङ ) अस्माभिः सदा किं पूजनीयम् ?
उत्तर – भारतम्
2. स्वमातृभूमिविषये द्वे वाक्ये वदत ।
उत्तर –
(क) अस्माकं मातृभूमिः विशाला , निर्मला , वत्सला चास्ति ।
(ख) अत्र सर्वेजना : एकत्वभावं बहन्तः वसन्ति ।
अभ्यासः – लिखितः
1 . एकपदेन उत्तरं लिखत –
( क ) देवा : कानि गायन्ति ?
उत्तर – गीतकानि
( ख ) जनैः कीदृशं जन्म लब्धम् ?
उत्तर – मुकुन्दसेवौपायिकम्
( ग ) विशाला धरा का ?
उत्तर – भारतभूमिः
(घ) जगद् गौरवं किं वर्तते ?
उत्तर – भारतवर्षम्
(ङ) समेषां जनानां का भवेत् ?
उत्तर – देशभक्तिः
2 . पूर्णवाक्येन उत्तरं लिखत –
( क ) अस्माकं भारतीया धरा कीदृशी अस्ति ?
उत्तर – अस्माकं भारतीया धरा निर्मला वत्सला च अस्ति ।
(ख)भारतीया धरा कैः काभिः च सेविता ?
उत्तर – भारतीया धरा सागरैः पर्वतैः निर्झरैः वहन्तीभिः अपगाभिः च सेविता ।
( ग ) धर्म – जाति प्रभेदैः विभिन्नाः जनाः किं वहन्तः वसन्ति ?
उत्तर – धर्म – जाति प्रभेदैः विभिन्नाः जनाः एकत्वभावं वहन्तः वसन्ति ।
(घ) के वारंवार भारते जन्म गृह्णन्ति ?
उत्तर – देवाः वारंवारं भारते जन्म गृह्णन्ति ।
( ङ ) सर्वेषां जनानां देशभक्तिः कीदृशी भवेत् ?
उत्तर – सर्वेषां जनानां देशभक्तिः सदा आवर्जनीया परादर्शरूपा च भवेत् ।
(च) भारतभूमिः कीदृशी अस्ति ?
उत्तर – भारतभूमि : निर्मला वत्सलाच अस्ति ।
( छ ) भारताजिरे जन्म लब्धं स्पृहा केषाम् अस्ति ?
उत्तर – भारताजिरे जन्म लब्धं स्पृहा देवानां अस्ति ।
3 . मञ्जूषायां लिखितपदानां समुचितप्रयोगं कृत्वा –
उदाहरणम् – अनुसृत्य पञ्च वाक्यानि रचयत –
रामेण , श्यामेन , लतया , सीतया , हिमांशुना , शिशुना , गीता , ग्रन्थः , कार्यम् , पत्रम् , रामायणम् , चित्रम् , लेखनीयम् , दर्शनीयम् , पठनीयम् , स्मरणीया , पठनीयः , करणीयम् ।
उदाहरणम् – रामेण पत्रं लेखनीयम् ।
उत्तर –
( क ) श्यामेन रामायणम् पठनीयम् ।
( ख ) लतया चित्रम् दर्शनीयम् ।
(ग) सीतया गीता स्मरणीया ।
( घ ) हिमांशुना कार्य करणीयम् ।
( ङ ) शिशुना ग्रंथः पठनीयः ।
4 . उदाहरणम् अनुसृत्य निम्नाङ्कितपदानां कृते विलोमपदानि लिखत-
उदाहरणम् – “ धन्याः ” इतिपदस्य विलोमपदम् – अधन्याः
प्रश्नाः
(क) सुरः – असुरः
(ख) पूजनीयम् – अपूजनीयम्
( ग ) भारतीया – अभारतीया
(घ) शोभनम् – अशोभनम्
(ङ) प्रसन्न. – अप्रसन्न:
( च ) प्रसिद्धम् – अप्रसिद्धम्
( छ ) शुभा – अशुभा
(ज) लब्धम् – अलब्धम्
(झ) गौरवम् – अगौरवम्
(ञ) रम्यरूपा – अरम्यरूपा
5 . उदाहरणम् अनुसृत्य रेखाङ्कितानां स्थाने विलोमपदानां प्रयोगं कृत्वा वाक्यानि रचयत ।
उदाहरणम् – ये पुण्य कुर्वन्ति ते धन्याः भवन्ति ।
उत्तरम् – ये पापं कुर्वन्ति ते अधन्याः भवन्ति ।
( क ) ये सज्जनाः सन्ति ते शोभनंकार्य कुर्वन्ति !
उत्तर – ये दुर्जनाः सन्ति ते अशोभनं कार्य कुर्वन्ति ।
(ख) पुरा गङ्गा निर्मला प्रवहति स्म ।
उत्तर – अधुना गङ्गा मलीना प्रवहति स्म ।
(ग) वाटिका सपुष्पवृक्षैः रम्याप्रतिभाति ।
उत्तर – वाटिका पुष्पविहीनवृक्षैः अरम्या प्रतिभाति ।
( घ ) धर्मात्मा अस्मामिः पूजनीयः ।
उत्तर – अधर्मात्मा अस्मामिः अपूजनीयः ।
(ङ) सद्व्यवहारेणमनसि शान्तिः प्रवर्धते ।
उत्तर – दुर्व्यवहारेण मनसि अशान्तिः प्रवर्धते ।