अभ्यास – मौखिक
1 . स्वामिनः दयानन्दस्य विषये द्वे वाक्ये वदत ।
उत्तर – स्वामिनः दयानन्द एक : महान् समाजसुधारकः आसीत् । स : आधुनिक भारतवर्षे समाजसेवा शिक्षायाश्च महान् उद्धारकः आसीत् ।
2 . अधोलिखितानां समस्तपदानां विग्रहं वदत –
धर्माद्धारकः , सत्यान्वेषी , वैषम्यनिवारक :, शिखरस्थानीयः , संस्कृतशिक्षा
उत्तर –
• धर्मोद्धारक – धर्मस्य उद्धारकः ।
• सत्यान्वेषी – सत्यस्य अन्वेषी ।
• वैषम्यनिवारक – वैषम्यस्य निवारकः ।
• शिखरस्थानीय – शिखरे स्थानीयः ।
• संस्कृतशिक्षा – संस्कृतस्य शिक्षा ।
3 . सन्धिविच्छेदं कुरुत –
संकल्पाच्च , धर्मान्तरम् , समाजोद्धरणस्य , सत्यान्वेषिणः , विग्रहार्पितानि
उत्तर –
• संकल्पाच्च- संकल्पात् + च ।
• धर्मान्तरम् – धर्म + अन्तरम् ।
• समाजोद्धरणस्य – समाज + उद्धरणस्य ।
• सत्यान्वेषिण – सत्य + अन्वेषिणः ।
• विग्रहार्पितानि – विग्रह +अर्पितानि ।
4. पञ्च अव्ययपदानि वदत ।
उत्तरम् – यथा , तथा , सम्प्रति , च , शीघ्रम् ।
अभ्यास – लिखितः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) मध्यकाले काः भारतीयं समाजम् अदूषयन् ?
उत्तर – मध्यकाले कुत्सितरीतयः भारतीय समाजम् अदूषयन् ।
(ख) के हिन्दुसमाज तिरस्कृत्य धर्मान्तरणं स्वीकृतवन्तः ?
उत्तर – दलिता : हिन्दुसमाज तिरस्कृत्य धर्मान्तरणं स्वीकृतवन्तः ।
( ग) स्वामिनः दयानन्दस्य जन्म कुत्र अभवत् ?
उत्तर – स्वामिनः दयानन्दस्य जन्म गुजरातप्रदेशस्य टंकरानामके अभवत् ।
( घ ) विग्रहार्पितानि द्रव्याणि के भक्षयन्ति ?
उत्तर – विग्रहार्पितानि द्रव्याणि मूषकाः भक्षयन्ति ।
(ङ) रात्रिजागरणं विहाय मूलशङ्करः कुत्र गतः ?
उत्तर – रात्रिजागरणं विहाय मूलशङ्करः गृहं गतः ।
2 . निम्नलिखितानां पदानां सन्धिविच्छेदं कुरुत –
• एवाध्ययनस्यास्य – एव + अध्ययनस्य + अस्य ।
• विग्रहमारुह्य – विग्रहम + आरुहृय ।
• वर्षेऽभूत् – वर्षे + अभूत् ।
• स्वजीवनमसावर्पितवान् – स्वजीवनम् – असौ + अर्पितवान् ।
• समाजोद्धारकैः – समाज + उद्धारकैः ।
• विद्यालयानाञ्च – विद्यालयानम् + च ।
3. अधोलिखितवाक्येषु कोष्ठात् समुचितं पदमादाय रिक्तस्थानानि पूरयत –
( क ) स्वामी दयानन्दः समाजोद्धारकः आसीत् ।
( ख ) बालकस्य नाम मूलशङ्करः इति कृतम् ।
(ग) शङ्करस्य विग्रहमारुह्य मूषकाःविग्रहार्पितानि द्रव्याणि भक्षयन्ति ।
( घ ) रात्रिजागरणं विहाय मूलशङ्करः गृहम् गतः ।
( ङ ) स्वामी दयानन्दः आर्यसमाजस्य संस्थापकः आसीत् ।
4 . निम्नलिखितानां पदानां प्रकृतिप्रत्ययविभागं कुरुत-
दर्शयित्वा, विरच्य, परित्यज्य, स्मरणीयम्, दृष्टम् , कृतम् , गतः
• दर्शयित्वा = दृश् णिच् + क्त्वा
• विरच्य = वि + रच् + ल्यप्
• परित्यज्य = परि + त्यज् + ल्यप्
• स्मरणीयम् = स्मृ + अनीयर्
• दृष्टम् = दृश् + क्त
• कृतम् = कृ + क्त
• गतः = गम् + क्त
5 . कोष्ठकस्थेभ्यः धातुभ्यः उचितप्रत्ययं योजयित्वा रिक्तस्थानानि पूरयत –
( क ) प्राचीनसमाजे अनेके दोषा : आसन् ।
(ख) तस्य जन्म 1824 ईस्वी वर्षे अभूत् ।
(ग) बालकस्य नाम मूलशङ्करः इति कृतम् ।
( घ ) दयानन्दस्य योगदानं सदा स्मरणीयम् ।
( ङ ) ततः मूलशङ्करे वैराग्यभावः समागतः ।
6 . अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगं कुरुत –
• मूषक – गृहे मूषक : धावति ।
• विद्वान् – देवदत्तः विद्वान् आसीत् ।
• धर्मोद्धारक – स्वामी दयानन्दः धर्माद्धारकः आसीत् ।
• अगच्छत् – उमेश : • विद्यालयात् गृहं अगच्छत् ।
• सह – रामेण सह सीताऽपि वनं गतवती ।
7 . निम्नलिखितानां पदानां विपरीतार्थकपदानि लिखत –
• विद्वान् – मूर्खः ।
• दोष – गुणः ।
• पराजित – विजितः ।
• अनास्था- आस्था ।
• उपकारम् – अपकारम् ।
• प्रारम्भ – समाप्तिः ।
• गर्हित – प्रशंसितः ।
• वैषम्यम् – साम्यम् ।
8 . अधोलिखितेषु पदेषु धातुयुक्तम् उचितं प्रत्ययं निर्दिशत –
( क ) गत – गम् + क्तः
(ख) गत्वा – गम् + क्त्वा
( ग ) गमनीयम् – गम् + अनीयर
(घ) उपगम्य – गम् + ल्यप्
(ङ) गन्तुम् – गम् + तुमुन्
9 . अधोलिखितानि रेखाङ्कितपदानि बहुवचने परिवर्तयत
( क ) स : ग्रन्थं विरच्य महान्तम् उपकारम् अकरोत् ।
– ग्रन्थानि
(ख) सः प्राचीनशिक्षायां दोषमः अदर्शयत् ।
– दोषाः
( ग ) स : गृहम् अपश्यत् ।
– गृहाणि
(घ) तत्र देवः पूजितः ।
– देवाः , पूजिताः
(ङ) सः खगं पश्यति ।
– खगान्
10 . अधोलिखितं रेखाङ्कितपदमनुसृत्य प्रश्ननिर्माणं कुरुत –
( क ) मध्यकाले धर्मकार्येषु आडम्बर : आसीत् ।
उत्तर – ( क ) मध्यकाले केषु आडम्बरः आसीत् ?
( ख ) तत्र विधवानां स्थितिः गर्हिता अस्ति ।
उत्तर – तत्र विधवानां स्थितिः का अस्ति ?
( ग ) बालकस्य नाम मूलशङ्करः आसीत् ।
उत्तर – कस्य नाम मूलशङ्करः आसीत् ?
( घ ) मूलशङ्करः मेधावी आसीत् ।
उत्तर – क : मेधावी आसीत् ?
( ङ ) आर्यसमाजस्य शाखा : देशे विदेशेषु च वर्तन्ते ।
उत्तर – कस्य शाखा : देशे विदेशेषु च वर्तन्ते ?
(च) मूलशङ्करस्य मूर्तिपूजांप्रति अनास्था जाता ।
उत्तर – मूलशङ्करस्य का प्रति अनास्था जाता ?
(छ) गृहं परित्यज्य स : गतः ।
उत्तर – किम् परित्यज्य स : गतः ?
11 . अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं लिखत –
सत्यान्वेषिणः , विधवानाम् , विषमे , धर्मोद्धारकाः , तेषु , प्रतिमायाम , वैदिकधर्मस्य , संस्कृतेन ।
उत्तर –
• सत्यान्वेषिण – प्रथमा ( बहुवचन )
• विधवानाम् – षष्ठी ( बहुवचन )
• विषमे — सप्तमी
• धर्माद्धारका – प्रथमा ( बहुवचन )
• तेषु – सप्तमी ( बहुवचन )
• प्रतिमायाम् – सप्तमी ( एकवचन )
• वैदिकधर्मस्य – षष्ठी ( एकवचन )
• संस्कृतेन – तृतिया ( एकवचन )