अभ्यासः – मौखिकः
1 . एकपदेन उत्तरं वदत –
( क ) विपुलं किम् अस्ति ?
उत्तर – संस्कृत साहित्यं ।
( ख ) विपुलं संस्कृतसाहित्यं कै : संवर्द्धितम् ?
उत्तर – विभिन्नैः कविभिः शास्त्रकारैश्च ।
( ग ) काव्यानाम् रचने संरक्षणे च काः दत्तावधानाः ?
उत्तर – स्त्रियः
( घ ) गङ्गादेवी किं महाकाव्यम् अरचयत् ?
उत्तर – मधुराविजयम् ।
(ङ) आधुनिकसंस्कृतलेखिकासु का प्रसिद्धा ?
उत्तर – पण्डिता क्षमाराव ।
2 . पदार्थं वदत ?
( क ) ” लभ्यन्ते ‘ इत्यस्य कः अर्थः ?
उत्तर – प्राप्नुवन्ति
( ख ) ” इन्द्राणी ” इत्यस्य कः अर्थः ?
उत्तर – इंद्रस्य पत्नी
(ग) ” वर्तते ” इत्यस्य कः अर्थः ?
उत्तर – अस्ति
( घ ) ” विपुलम् ” इत्यस्य कः अर्थः ?
उत्तर – विस्तृतम्
(ङ) “ऋषिका ” इत्यस्य कः अर्थः ?
उत्तर – ऋषे : पत्नी
अभ्यासः – लिखितः
1 . एकपदेन उत्तरं दत्त –
(क) कस्मिन् युगे मन्त्राणां दर्शका न केवला ऋषयः प्रत्युत ऋषिका अपि सन्ति ?
उत्तर – वैदिक युगे
( ख ) वागाम्भृणी कुत्र ऋषिका निर्दिश्यते ?
उत्तर – ऋग्वेद
(ग ) यावल्क्यस्य पत्नी का आसीत् ?
उत्तर – मैत्रेयी
(घ) कस्य सभायां शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति स्म ?
उत्तर – जनकस्य
(ङ) लौकिकसंस्कृतसाहित्ये चत्वारिंशत्कवयित्रीणां प्रथमकल्पा का वर्तते ?
उत्तर – विजयाङ्का
(च) लौकिकसंस्कृतसाहित्ये कियतीनां कवयित्रीणां वर्णनं लभ्यते ?
उत्तर – चत्वारिविंशत्
(छ) विजयभट्टारिका कस्य राज्ञी आसीत् ?
उत्तर – चन्द्रादित्यस्य
2. अधोलिखितानि रिक्तस्थानानि पूरयत –
(क) बृहदारण्यकोपनिषदि याज्ञवल्क्यस्य पत्नी मैत्रेयी वर्णिता ।
(ख) जनकस्य सभायां शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति स्म ।
(ग) लौकिकसंस्कृतसाहित्ये प्रायेण चत्वारिंशत् कवयित्रीणां सार्धशतं पद्यानि लभ्यन्ते ।
(घ) तासु विजयाङ्का प्रथमकल्पा वर्तते ।
(ङ) सा च श्याम वर्णासीदिति ।
(च) चन्द्रादित्यस्य राज्ञी विजयभट्टारिका एव विजयाङ्का इति मन्यन्ते ।
(छ) षोडशशतके अच्युतरायस्य राज्ञी तिरुमलाम्बा वारदाम्बिका : परिणयः नामक प्रौढं चम्पूकाव्यम् अरचयत् ।
3 . अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन संस्कृतभाषया दत्त –
(क) ऋग्वेदे कति ऋषिका : मन्त्रदर्शनवत्यो निर्दिश्यन्से ?
उत्तर – ऋग्वेदे पञ्च ऋषिकाः मन्त्रदर्शनवत्यो निर्दिश्यन्ते ।
( ख ) याज्ञवल्क्यस्य पलीकेन रूपेण वर्णिता ?
उत्तर – याज्ञवल्क्यस्व पली दार्शनिक रूचिमती रूपेण वर्णिता ।
( ग ) याज्ञवल्क्य : ता कि शिक्षयति ?
उत्तर – याज्ञवल्क्यः तां आत्मतत्वम् शिक्षयति ।
( घ ) विजयाङ्कायाः वर्णः कः आसीत् ?
उत्तर – विजयाङ्गायाः वर्ण : श्यामः आसीत् ।
( ङ ) तिरुमलाम्बा कस्य चम्यूकाव्यस्य रचनां कृतवतो ?
उत्तर – तिरुमलाम्बा वरदाम्बिका परिणय चम्पूकाव्यस्य रचनां कृतवती ।
( च ) शङ्करचरितम् इति जीवनचरितस्य रचयित्री का ?
उत्तर – शङ्करचरितम् इति जीवनचरितस्य रचयित्री पण्डिता क्षमाराव ।
4 . उदाहरणानुसारं पर्यायवाचिपदानि लिखत –
उदाहरणम् –
प्रश्न : – ‘ विशालम् ‘ इत्यस्य पर्यायपदम् किम् ?
– ” विशालम् ‘ इत्यस्य ” विपुलम् ” पर्यायपदम्
( क ) वृथा इत्यस्य निरर्थक पर्यायपदम् ।
( ख ) तत्पराः इत्यस्य उत्सुकाः पर्यायपदम् ।
( ग ) वर्तते इत्यस्य विद्यते पर्यायपदम् ।
( घ ) ख्याताः इत्यस्य प्रसिद्धाः पर्यायपदम् ।
( ङ ) ज्ञातमेव इत्यस्य विदितमेव पर्यायपदम् ।
( च ) भार्या इत्यस्य पत्नी पर्यायपदम् ।
( छ ) जननी इत्यस्य माता पर्यायपदम् ।
5 . अधोलिखितै : पदैः वाक्यानि रचयत –
( क ) सभायाम् – जनकस्य सभार्याम् गार्गी वाचक्नवी तिष्ठति स्म ।
( ख ) प्रथमकल्पा – लौकिकसंस्कृतसाहित्य कवयित्रीणां विजयादा प्रथमकल्पा वर्तते ।
( ग ) लभ्यते – तत्र किमपि न लभ्यते ।
( घ ) ऋषय – ऋषयः वने निवसन्ति स्म ।
( ङ ) शास्त्राणाम् – प्राचीन शास्त्राणम् संरक्षणम् आवश्यकम् ।
6 . उदाहरणम् अनुसृत्य स्वीप्रत्यययोगेनशब्द रचयत –
उदाहरण – कारक + टाप्
उत्तरम् – कारिका
( क ) लेखक + टाप् – लेखिका
(ख) नायक + टाप् – नायिका
( ग ) वाचक + टाप् – वाचिका
( घ ) विधायक + टाप् – विधायिका
( ङ ) योजक + टाप् – योजिका
( च ) धारक + टाप् – धारिका
( छ ) पालक + टाप् – पालिका
( ज ) गायक + टाप् – गायिका
7 . उदाहरणम् अनुसृत्य रेखाङ्कितपदानां स्थाने अन्यपदानि योजयत
उदाहरणम्
प्रश्न : –1 जनकस्य साभायाः गार्गी तिष्ठतिस्म ।
उत्तरम् –1 जनकस्य सभायां गार्गी अतिष्ठत।
प्रश्न : – 2 ते पठन्ति स्म
उत्तरम् – 2 ते अपठन्।
( क ) बालकः प्रतिदिनं विद्यालयं गच्छति स्म ।
उत्तरम् – बालक : प्रतिदिनं विद्यालयं आगच्छत् ।
(ख) छात्रा : सायंकाले क्षेत्रे क्रीडन्ति स्म ।
उत्तरम् – छात्राः सायंकाले क्षेत्रे अक्रीडन् ।
( ग ) अध्यापका : वर्गेषु पाठयन्ति स्म ।
उत्तरम् – अध्यापका : वर्गषु अपाठयन् ।
(घ) गजा : बने भ्रमन्ति स्म ।
उत्तरम् – गजा : वने अभ्रमन् ।
(ङ) कोकिला : वृक्षशाखासु कुजन्ति स्म ।
उत्तरम् – कोकिला : वृक्षशाखासु अकूजन् ।
(च) वानरा : तरुशिखरेषु कुर्दन्ति स्म ।
उत्तरम् – वानराः तरुशिखरेषु अकूर्दन् ।